कौशिकी नदी
कौशिकी नदी | |
River | |
Countries | चीन, नेपाल, भारत |
---|---|
States | शिगात्से, जनकपुर, बिहार |
Regions | Tibet Autonomous Region, Eastern Development Region, Nepal, North-Central India |
Cities | Biratnagar, Purnia, Katihar |
Source | इन्द्रावती, सुनकोशी, तामाकोशी, भोटेकोशी, लिखु, अरुण and तमोर form Saptakoshi |
- coordinates | २६°५४′४७″ उत्तरदिक् ८७°०९′२५″ पूर्वदिक् / 26.91306°उत्तरदिक् 87.15694°पूर्वदिक् |
Mouth | Ganges |
- coordinates | २५°२४′४३″ उत्तरदिक् ८७°१५′३२″ पूर्वदिक् / 25.41194°उत्तरदिक् 87.25889°पूर्वदिक् |
Length | ७२० km (४४७ mi) |
Basin | ६१,००० km2 (२३,५५२ sq mi) |
Discharge | |
- average | फलकम्:Unit discharge monthly[१] |
कौशिकी नदी चिनदेशस्य स्वशासित तिब्बत प्रदेशात् निसृत्य नेपालदेशस्य उत्तरतः दक्षिणस्यां वहति । विहारस्य कटिहारमण्डलान्तर्गते कुर्सेलास्थानसमीपे इयं गङ्गायां मिलति । सप्तनद्याः समागमेन सप्तकौशिकीति नाम्ना इयं विख्याता विद्यते । सप्तकौशिक्यां अभिव्यापका सप्तनद्यः - अरुणः, वरुणः, तमोरः, सुनकोशी, दुधकोशी, तामाकोशी (भोटेकोशी) इन्द्रावती [१]
पूर्वीय हिन्दूवैदिकधर्मसंस्कृतौ नद्याः अतीव महत्वपूर्णस्थानमस्ति । प्रातरुत्थाय भूमौ पादन्यासात् पूर्वं धरणीदेव्याः एतादृशवाक्येन क्षमां प्रार्थयन्ति हैन्दवाः ।
समुद्रवसने देवि पर्वतस्तनमण्डले ।
विष्णुपत्नी नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ।।
पूर्वीयसंस्कृतौ पर्वतानां नदीनाञ्च तादृशं स्थानं कल्पितम् । नद्यः तु मातृस्थाने विराजन्ते नेपालीयहृन्मन्दिरेषु । तासां नामानि अपि स्त्रीप्रत्ययान्तानि भवन्ति एव । नद्यस्तु नेपालवासिनां जनानाम् जीवनस्य अविभाज्यानि अङ्गानि सन्ति । अस्मिन् देवभूमौ सहस्राधिकाः नद्यः वहन्ति । इत्येव अस्या भूम्याः सौभाग्यम् ।
नदीपरिचयम् उद्भवञ्च
[सम्पादयतु]पौराणिकमहत्त्वम्
[सम्पादयतु]सप्तकाैशिक्याः तीरे वराहक्षेत्र नामधेयं अतीव पवित्रं प्रसिद्धञ्च हिन्दूतीर्थस्थलं वर्तते । इदं स्थानं धरानतः २५ किलाेमिटर पश्चिमाेत्तरस्यां दिशि स्थिताेस्ति । वराहपुराणे एतत्क्षेत्रस्य महत्त्वपूर्णवर्णनं वर्तते । अष्टादशपुराणेषु अन्यतमं वर्तते इदं पुराणम् । इदं किञ्चन प्राचीनं पुराणम् ।
सप्तकौशिक्याः प्राकृतस्थिति
[सम्पादयतु]अस्माकम् देशस्य प्रकृतिसम्पदा समृद्धोsस्ति । पूर्वीयवाङ्मये पृथ्वी, जलम्, वायुः, अग्निः, आकाशेति पञ्चमहाभूतात्मकानि प्रकृतिः । पञ्चमहाभूते जलस्य सर्वाेपरि स्थानम् वर्तते । सप्तकाैशिक्याः जलं शुद्धं निर्मलञ्च । अस्माकं परमपावनी सप्तकाैशिकी गङ्गा पुण्यनदीरूपेण तिष्ठेत् सदैव ।